पारिस्थितिकं परिचिन्तनम्- बृहत्संहितायाम् ॥
Keywords:
No Keywords.Abstract
संस्कृतसाहित्येपारिस्थितिकंपरिचिन्तनम्इतिविषयम् अधिकृत्यचर्चाकरणे श्रीमद्वराहमिहिरविरचिता बृहत्संहिता विशेषप्राधान्यमावहति। अत एव अत्र बृहत्संहितायाः स्थानं किमिति आदौ एव चिन्तनीयं भवति। कालविधानशास्त्रं नाम ज्योतिषं षट्सु वेदाङ्गेषु अन्यतमं नेत्रस्थानीयं १ च वर्तते। ज्योतिषस्य भागद्वयं प्रमाणभागः (Astronomy) फलभागः (Astrology) च। अत्रप्रमाणं गणितस्कन्धः । फलं तु संहिता होरा चेति द्विधा। अत्र ज्योतिश्शास्त्रे संहितास्कन्धे सूर्यपितामहादीनां अष्टादशानाम् आचार्याणां संहितानां सङ्ग्रहः इत्येव वाराहीसंहितायाः महत्त्वपूर्ण स्थानम्। श्रीमदाचार्यवराहमिहिरः आदित्यदासतनयः आवन्तिकः शकद्वितीयशतकीयः त्रिस्कन्धेषु अपि कृतभूरिपरिश्रमश्चासीत्। पञ्चसिद्धान्तिका, बृहत्संहिता, समाससंहिता, बृहज्जातकम्, लघुजातकम्, बृहद्विवाहपटलम्, यात्रा इत्यादयः अनेकेग्रन्थाः तेन रचिताः सन्ति । तथापि बृहत्संहिताकारः इत्येव तस्य प्राधान्यं स्यात् । अस्यां बृहत्संहितायाम् १०६ अध्यायेषु विविधानि निमित्तान्येव प्रतिपाद्यन्ते। अत्र निमित्तं नाम लक्षणमिति व्याख्याकारः ।
Downloads
Published
How to Cite
Issue
Section