पुरुषसूक्तीयसप्तपरिधीनां प्रपञ्चोत्पत्तिप्रकारको विचारः

Jump To References Section

Authors

  • Asst. Professor,Dept. of Sanskrit, Sree Sankara College, Kalady ,IN

Keywords:

No Keywords.

Abstract

ऋग्वेदीयं षोडशर्च पुरुषसूक्तं प्रथितमनल्पम्। जगत्सृष्टेः काव्यात्मिकी व्याख्याऽस्मिन्नुपलब्धा। ऋग्वेदे दशममण्डले दशममिदं सूक्तं आथर्वणे ऊनविंशतितमे काण्डे षष्ठे समावर्तते। यजुर्वेदेऽप्येकत्रिंशत्तमोऽध् यायः पुरुषसूक्तमिति ख्यातः। सामे तु तत्र तत्र पुरुषसूक्त मन्त्रेष्वन्यतमाः केचन दरीदृश्यन्ते। सूक्तस्यास्यर्षिर्नारायणो देवता पुरुषश्च। इयं सृष्टिर्विराट्पुरुषस्य विकासरूपेति निरूप्य तस्य विकासस्य प्रकारः कीदृश इतीह विचार्यते। प्रपञ्चस्य भौतिकी मानसिकी सामुदायिकी च सृष्टिः कस्माद्धेतोर्बभूवेति भावनात्मिकया शैल्या सूक्तेऽस्मिन् प्रतिपाद्यते। सृष्टिर्यज्ञरूपेत्यनया व्याख्यया प्रपञ्चरचनायाः यौक्तिकः कश्चन प्रकारः क्रमो वा विवक्षित इति गम्यते।

Downloads

Published

2024-10-16

How to Cite

Harikrishna, K. N. (2024). पुरुषसूक्तीयसप्तपरिधीनां प्रपञ्चोत्पत्तिप्रकारको विचारः. Sadvidya Journal of Research in Sanskrit, 14(1), 54–58. Retrieved from https://informaticsjournals.co.in/index.php/sadvidyasanskrit/article/view/46426

 

Similar Articles

<< < 4 5 6 7 8 9 10 11 12 13 > >> 

You may also start an advanced similarity search for this article.